|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.180. अध्यायः 180
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
व्यासेन कीटाय राज्यदानम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
व्यास उवाच।
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे।
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे॥ 13-180-1(88632)
अहं त्वां दर्शनादेव तारयामि तपोबलात्।
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते॥ 13-180-2(88633)
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम्।
अवाप्स्य्सि परं र्धर्मं मानुष्ये यदि मन्यसे॥ 13-180-3(88634)
कर्मभूमिकृतं देवा भुञ्जते तिर्यगाश्च ये।
धन्या अपि मनुष्येषु कामार्थाश्च यथा गुणाः॥ 13-180-4(88635)
वाग्बुद्धिपाणिपादैश्च समुपेता विपश्चितः।
किमायाति मनुष्यस्य मन्दस्यार्थस्य जीवतः॥ 13-180-5(88636)
दैवे यः कुरुते पूजां विप्राग्निशशिसूर्ययोः।
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि॥ 13-180-6(88637)
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे।
क्रमात्तेऽहं विनेष्यामि ब्रह्मत्वं यदि चेच्छसि। 13-180-7(88638)
भीष्म उवाच।
स तथेति प्रतिश्रुत्य कीटः समवतिष्ठत॥ 13-180-7x(7387)
*तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु॥ 13-180-8(88639)
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम्।
श्वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु॥ 13-180-9(88640)
स कीटे एवमाख्यातमृषिणा सत्यवादिना।
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः॥ 13-180-10(88641)
कीट उवाच। 13-180-11x(7388)
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः।
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्॥ 13-180-11(88642)
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः।
स्यन्दनेषु च काम्भोजा युक्ताःसमरवाजिनः॥ 13-180-12(88643)
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्।
सबान्धवः सहामात्यश्चाश्नामि पिशिताशनम्॥ 13-180-13(88644)
गृहेषु स्वनिवासेषु सुखेषु शयनेषु च।
वरार्हेषु महाभाग स्वपामि च सुपूजितः॥ 13-180-14(88645)
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः।
स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः॥ 13-180-15(88646)
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः।
यदहं कीटतां प्राप्य स्मृतिजाता जुगुप्सिताम्।
ननु नाशोस्ति पापस्य यन्मयोपचितं पुरा॥ 13-180-16(88647)
[नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम्।
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया॥] 13-180-17(88648)
व्यास उवाच। 13-180-18x(7389)
[अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया।
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिताम्]॥ 13-180-18(88649)
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना।
ममैतद्दर्शनं प्राप्तं तच्च वै सुकृतं पुरा।
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात्तथा॥ 13-180-19(88650)
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि।
गोब्राह्मणकृते प्राणान्हित्वाऽऽत्मीयान्रणाजिरे॥ 13-180-20(88651)
भीष्म उवाच। 13-180-21x(7390)
राजपुत्रः सुखं प्राप्य ईजे चैवाप्तदक्षिणैः।
अथ चोद्दीप्यत स्वर्गे प्रभूतोप्यव्ययः सुखी॥ 13-180-21(88652)
तिर्यग्योन्याः शूद्रतामभ्यपैति
शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं
स्वर्गं पुण्याद्ब्राह्मणः साधुवृत्तः॥ ॥ 13-180-22(88653)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः॥ 180 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-180-1 तदैव कीट तत्कर्मेति क.ड.थ. पाठः॥ 7-180-6 जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः इति झ.पाठः॥ 7-180-8 * अत्र सप्तमश्लोकादनन्तरं सार्धश्लोको झ. पुस्तकेऽधिको दृस्यते सच व्रजंश्च सुमहानागतश्च यदृच्छया। चक्राक्रमेण भिन्नश्च कीटः प्राणान्मुमोच ह॥ सम्भूतः क्षत्रियकुले प्रसादादमितौजसः। इति॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|